Total Pageviews

Tuesday, 4 September 2012

काकः काकः बको बकैव च।


स्नात्वा किञ्च फलं रे काक ?
काको स्यान्नतु बको कदाचित्।
हे बक ! तद्वत् बको बकैव च
सोपि च कृष्णो भवेन्न काकः॥





Sunday, 1 July 2012

जलमिव भवतु सदा


जलमिव भवतु सदा
लमिव मृदुलं भवतु सदापि।
जलमिव मधुरं वितरतु भुवने।
जलमिव शीतलमस्तु चरित्रम्।
जलमिव निर्मलमस्तु मनश्च।

Thursday, 14 June 2012

वानरः वा नरः वा ?


वानरः वा  नरः वा ?

पादपशिखरे मर्कटवीरो

हेलति कुसृतिभिरामोदम्।

आरोहति तरुशिखरमतिद्रुत-

मवरोहति तरुमूलमथैवम्।

बहुविधभावैर्हावैर्विहरति

बहुजनश्रद्धां सो हरति।

दृष्ट्वा मानवमनसि वितर्कः

वा नरः? वा नर ? इत्येवम्॥

Friday, 1 June 2012

चन्दिरबिम्बोयम्

चन्दिरबिम्बोयम्


सुवर्णमेकं पात्रं विलसति 

गगने किं वा तत् ?

परितः पश्यतु पात्रात् गलिताः 

सुवर्णकणिकाश्च।

सुवर्णपात्रं नहि नहि गगने 

चन्दिरबिम्बोयम्।

सुवर्णकणिकासदृशं स्फुरति च 

तारकमेकैकम् ।।

Tuesday, 29 May 2012

चित्रपतङ्गः।

कुसुमसमानं धरति शरीरं 
कुसुमे विहरति चित्रपतङ्गः 
डयते मन्दं मन्दमकस्मात्
गगनं गत्वा पुनरागछति 
सरति सलीलं कुसुमात्  कुसुमं 
 वितरति  परागमनवरतम्।
 हरति स पुष्परसं कुसुमेभ्यः 
 हरति तथा जनहृदयमपि।