Total Pageviews

Saturday, 10 November 2012

कुलीरकवृत्तान्तमम्


क्षेत्रेत्र सर्वत्र त्वां मार्गयाम्यहं
वर्तसे कुत्र त्वं मित्र! कुलीरकः?
भूत्वालमार्तो मां मार्गमाणो
वर्तेहमत्र भोः गर्ते निलीनः।




Saturday, 6 October 2012

वसन्तागमः।



मारुतो वीजति मन्दमन्दम्।
गायन्ति सानन्दं कीचकाः।
सामोदं नृत्यन्तो पादपाः
स्वागतं कुर्वन्ति पुष्पवृष्ट्या॥



Saturday, 29 September 2012

बालक्रीडा



पङ्के स्नाति वराहो नित्यम्।
पांसुस्नाने तुष्यति कलभः।
मज्जति महिषो सुचिरं सलिले।
इच्छति ‍क्षारे शुनको शयनम्।
पश्यतु बालान् क्रीडालोलान्।
दृश्यमिदं ननु सुखदं नितराम्
पङ्को सलिलं पांसुस्सर्वं
केलिषु रम्यमहो बालानाम्।


Monday, 24 September 2012

मीनः।

वसति मीनः सुखेन 
सलिलमाश्रयन् सदा।
जलं विहाय मीनः
स्थले ‍क्षणं न जीवति।

Tuesday, 4 September 2012

काकः काकः बको बकैव च।


स्नात्वा किञ्च फलं रे काक ?
काको स्यान्नतु बको कदाचित्।
हे बक ! तद्वत् बको बकैव च
सोपि च कृष्णो भवेन्न काकः॥