Total Pageviews

Tuesday, 29 May 2012

चित्रपतङ्गः।

कुसुमसमानं धरति शरीरं 
कुसुमे विहरति चित्रपतङ्गः ।
डयते मन्दं मन्दमकस्मात्
गगनं गत्वा पुनरागछति ।
सरति सलीलं कुसुमात्  कुसुमं 
 वितरति  परागमनवरतम्।
 हरति स पुष्परसं कुसुमेभ्यः 
 हरति तथा जनहृदयमपि।    







Sunday, 8 April 2012

पञ्च एव वयम् ।

पञ्च एव वयम् । 

नाम किं सखे ? भीमसेनः।

कुत्र देशः ? हस्तिनापुरे।

कति जना गृहे ? पञ्च भो वयम्।

वदतु के च ते ? वदामि श्रूयताम्।

अग्रजोस्ति मे धर्मपुत्रः।

पुनरयं जनो भीमसेनः।

अर्जुनोनुजो ततस्स नकुलः।

अन्तिमोस्ति भोः सहदेवनामकः।

Friday, 6 April 2012

संस्कृताय नमो नमः

  संस्कृताय नमो नमः 


अहं पठामि संस्कृतम्।

अहं वदामि संस्कृतम् ।

ललितमेव संस्कृतम्।

मधुरमेव संस्कृतम् ।

अतुलमेव संस्कृतम् ।

अनघमेव संस्कृतम् ।

अमृतमेव संस्कृतम् ।

अहं नमामि संस्कृतम्।

Thursday, 5 April 2012

कुत्र वसति ?

कुत्र वसति ?

कुत्र वसति मीनः? सदापि निर्मले जले
कुत्र सरति विहगः ? आनन्तगगनमण्डले 
कुत्र वसति मानवः  ? तस्य गेहमाश्रयन्
कुत्र वसति देवः ? भक्तहृयमन्दिरे