का त्वं बाले ?
Sanskrit Poems for Children , Funny Sanskrit Poems, Sisugeetham , Sanskrit Balakavitha
Total Pageviews
Sunday, 1 July 2012
जलमिव भवतु सदा
जलमिव भवतु सदा
ज
लमिव मृदुलं भवतु सदापि।
जलमिव मधुरं वितरतु भुवने।
जलमिव शीतलमस्तु चरित्रम्।
जलमिव निर्मलमस्तु मनश्च।
Thursday, 14 June 2012
वानरः वा नरः वा ?
वानरः
वा
नरः
वा
?
पा
दपशिखरे मर्कटवीरो
हेलति कुसृतिभिरामोदम्।
आरोहति तरुशिखरमतिद्रुत-
मवरोहति तरुमूलमथैवम्।
बहुविधभावैर्हावैर्विहरति
बहुजनश्रद्धां सो हरति।
दृष्ट्वा मानवमनसि वितर्कः
वा नरः
?
वा नर
?
इत्येवम्॥
Friday, 1 June 2012
चन्दिरबिम्बोयम्
चन्दिरबिम्बोयम्
सु
वर्णमेकं पात्रं विलसति
गगने किं वा तत् ?
परितः पश्यतु पात्रात् गलिताः
सुवर्णकणिकाश्च।
सुवर्णपात्रं नहि नहि गगने
चन्दिरबिम्बोयम्।
सुवर्णकणिकासदृशं स्फुरति च
तारकमेकैकम् ।।
Tuesday, 29 May 2012
चित्रपतङ्गः।
कु
सुमसमानं धरति शरीरं
कुसुमे विहरति चित्रपतङ्गः
।
डयते मन्दं
मन्दमकस्मात्
गगनं गत्वा पुनरागछति
।
सरति सलीलं कुसुमात्
कुसुमं
वितरति
परागमनवरतम्।
हरति स पुष्परसं कुसुमेभ्यः
हरति तथा जनहृदयमपि।
Sunday, 8 April 2012
पञ्च एव वयम् ।
पञ्च एव वयम्
।
नाम किं सखे ? भीमसेनः
।
कुत्र देशः ? हस्तिनापुरे
।
कति जना गृहे ? पञ्च भो वयम्
।
वदतु के च ते ? वदामि श्रूयताम्
।
अग्रजोस्ति मे धर्मपुत्रः
।
पुनरयं जनो भीमसेनः
।
अर्जुनोनुजो ततस्स नकुलः
।
अन्तिमोस्ति भोः सहदेवनामकः
।
Friday, 6 April 2012
संस्कृताय नमो नमः
संस्कृताय नमो नमः
अहं पठामि संस्कृतम्
।
अहं वदामि संस्कृतम्
।
ललितमेव संस्कृतम्
।
मधुरमेव संस्कृतम्
।
अतुलमेव संस्कृतम्
।
अनघमेव संस्कृतम्
।
अमृतमेव संस्कृतम्
।
अहं नमामि संस्कृतम्
।
Thursday, 5 April 2012
कुत्र वसति ?
कुत्र वसति ?
कुत्र वसति मीनः? सदापि निर्मले जले
कुत्र सरति विहगः ? आनन्तगगनमण्डले
कुत्र वसति मानवः ? तस्य गेहमाश्रयन्
कुत्र वसति देवः ? भक्तहृयमन्दिरे
Newer Posts
Home
Subscribe to:
Posts (Atom)