Total Pageviews

Thursday 14 June 2012

वानरः वा नरः वा ?


वानरः वा  नरः वा ?

पादपशिखरे मर्कटवीरो

हेलति कुसृतिभिरामोदम्।

आरोहति तरुशिखरमतिद्रुत-

मवरोहति तरुमूलमथैवम्।

बहुविधभावैर्हावैर्विहरति

बहुजनश्रद्धां सो हरति।

दृष्ट्वा मानवमनसि वितर्कः

वा नरः? वा नर ? इत्येवम्॥

No comments:

Post a Comment