Total Pageviews

Saturday, 1 December 2012

संस्कृताय नमो नमः।


हं पठामि संस्कृतम्
दिने दिने निरन्तरम्।
वदामि सरलसंस्कृतम्
पदे पदे निस्संशयम्।
ललितमेव संस्कृतम्।
कलितगुणगणान्वितम्।
मधुरमेव संस्कृतम्।
अनुपदं ददाति च।
अतुलमेव संस्कृतम्।
अनघमेव संस्कृतम्।
अमृतमेव संस्कृतम्।
अहं नमामि संस्कृतम्।




Saturday, 10 November 2012

कुलीरकवृत्तान्तमम्


क्षेत्रेत्र सर्वत्र त्वां मार्गयाम्यहं
वर्तसे कुत्र त्वं मित्र! कुलीरकः?
भूत्वालमार्तो मां मार्गमाणो
वर्तेहमत्र भोः गर्ते निलीनः।




Saturday, 6 October 2012

वसन्तागमः।



मारुतो वीजति मन्दमन्दम्।
गायन्ति सानन्दं कीचकाः।
सामोदं नृत्यन्तो पादपाः
स्वागतं कुर्वन्ति पुष्पवृष्ट्या॥



Saturday, 29 September 2012

बालक्रीडा



पङ्के स्नाति वराहो नित्यम्।
पांसुस्नाने तुष्यति कलभः।
मज्जति महिषो सुचिरं सलिले।
इच्छति ‍क्षारे शुनको शयनम्।
पश्यतु बालान् क्रीडालोलान्।
दृश्यमिदं ननु सुखदं नितराम्
पङ्को सलिलं पांसुस्सर्वं
केलिषु रम्यमहो बालानाम्।


Monday, 24 September 2012

मीनः।

वसति मीनः सुखेन 
सलिलमाश्रयन् सदा।
जलं विहाय मीनः
स्थले ‍क्षणं न जीवति।

Tuesday, 4 September 2012

काकः काकः बको बकैव च।


स्नात्वा किञ्च फलं रे काक ?
काको स्यान्नतु बको कदाचित्।
हे बक ! तद्वत् बको बकैव च
सोपि च कृष्णो भवेन्न काकः॥





Sunday, 1 July 2012

जलमिव भवतु सदा


जलमिव भवतु सदा
लमिव मृदुलं भवतु सदापि।
जलमिव मधुरं वितरतु भुवने।
जलमिव शीतलमस्तु चरित्रम्।
जलमिव निर्मलमस्तु मनश्च।

Thursday, 14 June 2012

वानरः वा नरः वा ?


वानरः वा  नरः वा ?

पादपशिखरे मर्कटवीरो

हेलति कुसृतिभिरामोदम्।

आरोहति तरुशिखरमतिद्रुत-

मवरोहति तरुमूलमथैवम्।

बहुविधभावैर्हावैर्विहरति

बहुजनश्रद्धां सो हरति।

दृष्ट्वा मानवमनसि वितर्कः

वा नरः? वा नर ? इत्येवम्॥

Friday, 1 June 2012

चन्दिरबिम्बोयम्

चन्दिरबिम्बोयम्


सुवर्णमेकं पात्रं विलसति 

गगने किं वा तत् ?

परितः पश्यतु पात्रात् गलिताः 

सुवर्णकणिकाश्च।

सुवर्णपात्रं नहि नहि गगने 

चन्दिरबिम्बोयम्।

सुवर्णकणिकासदृशं स्फुरति च 

तारकमेकैकम् ।।

Tuesday, 29 May 2012

चित्रपतङ्गः।

कुसुमसमानं धरति शरीरं 
कुसुमे विहरति चित्रपतङ्गः 
डयते मन्दं मन्दमकस्मात्
गगनं गत्वा पुनरागछति 
सरति सलीलं कुसुमात्  कुसुमं 
 वितरति  परागमनवरतम्।
 हरति स पुष्परसं कुसुमेभ्यः 
 हरति तथा जनहृदयमपि।    







Sunday, 8 April 2012

पञ्च एव वयम् ।

पञ्च एव वयम्  

नाम किं सखे ? भीमसेनः

कुत्र देशः ? हस्तिनापुरे

कति जना गृहे ? पञ्च भो वयम्

वदतु के च ते ? वदामि श्रूयताम्

अग्रजोस्ति मे धर्मपुत्रः

पुनरयं जनो भीमसेनः

अर्जुनोनुजो ततस्स नकुलः

अन्तिमोस्ति भोः सहदेवनामकः

Friday, 6 April 2012

संस्कृताय नमो नमः

  संस्कृताय नमो नमः 


अहं पठामि संस्कृतम्

अहं वदामि संस्कृतम् 

ललितमेव संस्कृतम्

मधुरमेव संस्कृतम् 

अतुलमेव संस्कृतम् 

अनघमेव संस्कृतम् 

अमृतमेव संस्कृतम् 

अहं नमामि संस्कृतम्

Thursday, 5 April 2012

कुत्र वसति ?

कुत्र वसति ?

कुत्र वसति मीनः? सदापि निर्मले जले
कुत्र सरति विहगः ? आनन्तगगनमण्डले 
कुत्र वसति मानवः  ? तस्य गेहमाश्रयन्
कुत्र वसति देवः ? भक्तहृयमन्दिरे